Sbg 1.8 scdhan
Sanskrit Commentary By Sri Dhanpati ।।1.8।।तानेव विशिष्टान् स्वसेनानायकान् परिगणयति भवानित्यादिना। समितिं संग्रामं जयतीति तथा। समितिंजयपदं मध्यमणिन्यायेनोभयत्र संबध्यते। कर्णात्मश्चात्परिगणनेन कृपाश्वत्थाम्नोः कोपो माभूदिति तयोर्विशेषणत्वेन समितिंजयपदोपादानम्। विकर्णः स्वभ्राता। सौमदत्तिर्भूरिश्रवाः।