तत्त्वज्ञानविवृद्धिप्रकरणम्

From IKS BHU
Revision as of 16:40, 11 February 2025 by imported>Gagan (Created page with "समाधिविशेषाभ्यासात् 4/2/38 नार्थविशेषप्राबल्यात् 4/2/39 क्षुदादिभिः प्रवर्तनाच्च 4/2/40 पूर्वकृतफलानुबन्धात् तदुत्पत्तिः 4/2/41 अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः 4/2/42 अपवर्गेऽप्येवं...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

समाधिविशेषाभ्यासात् 4/2/38

नार्थविशेषप्राबल्यात् 4/2/39

क्षुदादिभिः प्रवर्तनाच्च 4/2/40

पूर्वकृतफलानुबन्धात् तदुत्पत्तिः 4/2/41

अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः 4/2/42

अपवर्गेऽप्येवं प्रसङ्गः 4/2/43

न, निष्पन्नावश्यम्भावित्वात् 4/2/44

तदभावश्चापवर्गे 4/2/45

तदर्थ यमनियमाभ्यामात्मसंस्करो योगाच्चाध्यात्मविध्युपायैः 4/2/46

ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः 4/2/47

तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयिभिरभ्युपेयात् 4/2/48

प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे 4/2/49