अपवर्गपरीक्षाप्रकरणम्

From IKS BHU
Revision as of 16:04, 11 February 2025 by imported>Gagan (Created page with "ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः 4/1/58 प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः 4/1/59 समारोपणादात्मन्यप्रतिषेधः 4/1/60 पात्रचयान्तानुपपत्तेश्च फलाभावः 4/1/...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः 4/1/58

प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः 4/1/59

समारोपणादात्मन्यप्रतिषेधः 4/1/60

पात्रचयान्तानुपपत्तेश्च फलाभावः 4/1/61

सुषुप्तस्य स्वप्रादर्शन क्लेशाभावादपवर्गः 4/1/62

न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य 4/1/63

न क्लेशसन्ततेः स्वाभाविकत्वात् 4/1/64

प्रागुत्पत्तेरभावानित्यतववत् स्वाभाविकेऽप्यनित्यत्वम् 4/1/65

अणुश्यामताऽनित्यत्ववद्वा 4/1/66

न सङ्कल्पनिमित्तत्वाच्च रागादीनाम् 4/1/67