फलपरीक्षाप्रकरणम्
सद्यः कालान्तरे च फलनिष्पत्तेः संशयः 4/1/44
कालान्तरेणानिष्पत्तिहेतुविनाशात् 4/1/45
प्राङ्निष्पत्तेर्वृक्षफलवत्तत् स्यात् 4/1/46
नासन्न सन्न सदसत्, सदसतोवैधर्म्यात् 4/1/47
उत्पादव्ययदर्शनात् 4/1/48
बुद्धिसिद्धं तु तदसत् 4/1/49
आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवदित्यहेतुः 4/1/50
प्रीतेरात्माश्रयत्वादप्रतिषेधः 4/1/51
न पुश्पशुस्त्रीपरिच्छेदहिरण्यात्रादिफलनिर्देशात् 4/1/52
तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः 4/1/53