दोषत्रैराश्यप्रकरणम्

From IKS BHU
Revision as of 13:12, 11 February 2025 by imported>Gagan (Created page with "तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् 4/1/3 नैकप्रत्यनीकभावात् 4/1/4 व्यभिचारादहेतुः 4/1/5 तेषां मोहः पापीयान्नामूढस्येतरोत्पत्तेः 4/1/6 निमित्तनैमित्तकभावादर्थान्तरभावो दोषेभ...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् 4/1/3

नैकप्रत्यनीकभावात् 4/1/4

व्यभिचारादहेतुः 4/1/5

तेषां मोहः पापीयान्नामूढस्येतरोत्पत्तेः 4/1/6

निमित्तनैमित्तकभावादर्थान्तरभावो दोषेभ्यः 4/1/7

न दोषलक्षणावरोधान्मोहस्य 4/1/8

निमित्तनैमित्तिकोपपतेश्च तुल्यजातीयानामप्रतिषेधः 4/1/9