Sbg 18.78 scmad
Sanskrit Commentary By Sri Madhavacharya ।।18.78।। पूर्णादोषमहाविष्णोर्गीतामाश्रित्य लेशतः।
निरूपणं कृतं तेन प्रीयतां मे सदा विभुः।सङ्कराख्यस्य दुयोर्नेर्निस्सृतेन रजस्वला। गीतानारी समीरेण शोधिता हंसरूपिणा।।1।।
मायिनः शलभायन्ते भास्करस्तस्करायते। यस्य तस्मिन्प्राणनाथे यतीन्द्रे भक्तिरस्तु मे।।2।।