Sbg 18.73 scram

From IKS BHU
Revision as of 15:50, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Ramanuja ।।18.73।।अर्जुन उवाच -- मोहः विपरीतज्ञान त्वत्प्रसादात् मम तद् विनष्टम्। स्मृतिः यथावस्थिततत्त्वज्ञानं त्वत्प्रसादाद् एव तत् च लब्धम्।अनात्मनि प्रकृतौ आत्माभिमानरूपो मोहः? परमपुरुषशरीरतया तदात्मकस्य कृत्स्नस्य चिदचिद्वस्तुनः अतदात्माभिमानरूपः च? नित्यनैमित्तिकरूपस्य कर्मणः परमपुरुषाराधनतया तत्प्राप्त्युपायभूतस्य बन्धत्वबुद्धिरूपः च? सर्वो विनष्टः। आत्मनः प्रकृतिविलक्षणत्वतत्स्वभावरहितताज्ञातृत्वैकस्वभावतापरमपुरुषशेषतातन्नियाम्यत्वैकस्वरूपताज्ञानम्? भगवतो निखिलजगदुत्पत्तिस्थितिप्रलयलीलाशेषदोषप्रत्यनीककल्याणैकस्वरूपस्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजः प्रभृतिसमस्तकल्याणगुणगणमहार्णवपरब्रह्मशब्दाभिधेयपरमपुरुषयाथात्म्यविज्ञानं च? एवंरूपं परावरतत्त्वयाथात्म्यविज्ञानतदभ्यासपूर्वकाहरहरुपचीयमानपरमपुरुषप्रीत्यैकफलनित्यनैमित्तिककर्मनिषिद्धपरिहारशमदमाद्यात्मगुणनिर्वर्त्यभक्तिरूपतापन्नपरमपुरुषोपासनैकलभ्यो वेदान्तवेद्यः परमपुरुषो वासुदेवः त्वम् इति ज्ञानं च लब्धम्।ततः च बन्धुस्नेहकारुण्यप्रवृद्धविपरीतज्ञानमूलात् सर्वस्माद् अवसादाद् विमुक्तो गतसंदेहः स्वस्थः स्थितः अस्मि। इदानीम् एव युद्धादिकर्तव्यताविषयं तव वचनं करिष्ये यथोक्तं युद्धादिकं करिष्ये इत्यर्थः।धृतराष्ट्राय स्वस्य पुत्राः पाण्डवाः च युद्धे किम् अकुर्वत इति पृच्छते -- संजय उवाच --