क्षणभङ्गपरीक्षाप्रकरणम्

From IKS BHU
Revision as of 17:07, 6 February 2025 by imported>Gagan (Created page with "स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाद्वयक्तीनामहेतुः 3/2/10 नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा 3/2/11 नः उत्पत्तिविनाशकारणोपलब्धेः 3/2/12 क्षीरविनाशे कारणानुपलव्धिवद्दध्युत्पत्...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाद्वयक्तीनामहेतुः 3/2/10

नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा 3/2/11

नः उत्पत्तिविनाशकारणोपलब्धेः 3/2/12

क्षीरविनाशे कारणानुपलव्धिवद्दध्युत्पत्तिवच्च तदुपपत्तिः 3/2/13

लिङ्गतो ग्रहणान्ननुपलब्धिः 3/2/14

न पयसः परिणामगुणान्तरप्रादुर्भावात् 3/2/15

व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् 3/2/16

क्वचिद्विनाशकरणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः 3/2/17