Sbg 18.52 scpur
Sanskrit Commentary By Sri Purushottamji
।।18.52।।किञ्च। विविक्तसेवी एकान्ते मत्सेवनपरः? लब्धाशी लब्धः प्राप्तो यो मत्प्रसादो लाभरूपस्तद्भोजनकृत्। यतवाक्कायमानसः यतानि वशीकृतानि कायवाङ्मनांसि येन सः। तथा हि -- वचनेन मन्नामकथाद्यतिरिक्तं न वदति? कायश्च मत्सेवातिरिक्तकार्ये नोपयाति? मनोऽपि मदन्यन्न स्मरति। नित्यं ध्यानयोगपरः। ध्यानेन यो योगो मत्संयोगस्तस्मिन् परस्तत्परः वैराग्यं सर्ववस्तुदोषालोचनात्मकं समुपाश्रितः सम्यक् उप समीपे आश्रितः। अनेन विकारसत्त्वेऽपि तद्राहित्यं निरूपितम्।