अर्थपरीक्षाप्रकरणम्

From IKS BHU
Revision as of 17:04, 6 February 2025 by imported>Gagan (Created page with "गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः 3/1/54 अप्तेजोवायूनां पूर्वपूर्वम पोह्याकाशस्योत्तरः 3/1/55 न सर्वगुणानुपलब्धेः 3/1/56 एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तराणां...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः 3/1/54

अप्तेजोवायूनां पूर्वपूर्वम पोह्याकाशस्योत्तरः 3/1/55

न सर्वगुणानुपलब्धेः 3/1/56

एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तराणां तदनुपलब्धिः 3/1/57

विष्टं ह्यपरं परेण 3/1/58

नः पार्थिवाप्ययोः प्रत्यक्षत्वात् 3/1/59

पूर्वपूर्वगुणोत्कर्षात् तत्तत्प्रधानम् 3/1/60

तद्व्यवस्थानं तु भूयस्त्वात् 3/1/61

सगुणानामिन्द्रियभावात् 3/1/62

तेनैव तस्याग्रहणाच्च 3/1/63

न शब्दगुणोपलब्धेः 3/1/64

तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात् 3/1/65