Sbg 18.50 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।18.50।।प्रागुक्तसाधनसंपन्नस्य सर्वकर्मसंन्यासिनो ब्रह्मज्ञानोत्पत्तौ साधनक्रममाह -- सिद्धिमिति। स्वकर्मणेश्वरमाराध्य तत्प्रसादजां सर्वकर्मत्यागपर्यन्तां ज्ञानोत्पत्तियोग्यतारूपां सिद्धिमन्तःकरणशुद्धिं प्राप्तो यथा ब्रह्म प्राप्नोति येन प्रकारेण शुद्धमात्मानं साक्षात्करोति तथा तं प्रकारं निबोध मे मद्वचनादवधारयानुष्ठातुम्। किमतिविस्तरेण नेत्याह समासेन संक्षेपेणैव नतु विस्तरेण हे कौन्तेय? तदवधारणे किं स्यादित्यत आह -- निष्ठेति। निष्ठा ज्ञानस्य या परा ज्ञानस्य विचारपरिनिष्पन्नस्य निष्ठा परिसमाप्तिर्यदनन्तरं साधनान्तरं नानुष्ठेयमस्ति। परा श्रेष्ठा सर्वान्त्या वा साक्षान्मोक्षहेतुत्वात्। तां सिद्धिं प्राप्तस्य ब्रह्मप्राप्तिरूपां ज्ञाननिष्ठां परां संक्षेपेण निबोधेत्यर्थः।