Sbg 18.50 scjaya
Sanskrit Commentary By Sri Jayatritha ।।18.50।।सिद्धिं प्राप्तः इति योगसिद्धिप्राप्त्यनन्तरं ब्रह्मप्राप्तावुपायकथनं प्रतिज्ञायत इत्यन्यथाप्रतीतिनिरासार्थं व्याचष्टे -- यथे ति।ब्रह्माप्नोति इत्यनुवादमात्रम्। तथा तमुपायम्। प्रतीत एवार्थः किं न स्यात् इति चेत्? न सिद्धेर्ज्ञाननिष्ठात्मकत्वेनाभिधानात्। ज्ञानस्य च ब्रह्मप्राप्तावनपेक्षत्वादिति भावेन निष्ठेत्येतद्व्याचष्टे -- ये ति।