Sbg 18.50 scram
Sanskrit Commentary By Sri Ramanuja ।।18.50।। सिद्धिं प्राप्तः आप्रयाणाद् अहरहः अनुष्ठीयमानकर्मयोगनिष्पाद्यध्यानसिद्धिं प्राप्तो यथा येन प्रकारेण वर्तमानो ब्रह्म प्राप्नोति तथा समासेन मे निबोध। तद् एव ब्रह्म विशिष्यते निष्ठा ज्ञानस्य या परा इति। ज्ञानस्य ध्यानात्मकस्य या परा निष्ठा परं प्राप्यम् इत्यर्थः।