Sbg 18.49 scjaya
Sanskrit Commentary By Sri Jayatritha ।।18.49।।नैष्कर्म्यसिद्धिं मोक्षमिति केचित्? तदसत् तदनन्तरं मां विशते इति वाक्यशेषविरोधादिति भावेनान्यथा व्याचष्टे -- नैष्कर्म्ये ति। नैष्कर्म्यार्था सिद्धिर्नैष्कर्म्यसिद्धिः। सा च योगस्येत्यर्थः।