Sbg 18.49 scram
Sanskrit Commentary By Sri Ramanuja ।।18.49।। सर्वत्र फलादिषु असक्तबुद्धिः जितात्मा जितमनाः परमपुरुषकर्तृत्वानुसन्धानेन आत्मकर्तृत्वे विगतस्पृहः एवं त्यागाद् अनन्यत्वेन निर्णीतेन संन्यासेन युक्तः कर्म कुर्वन् परमां नैष्कर्म्यसिद्धिम् अधिगच्छति। परमां ध्याननिष्ठां ज्ञानयोगस्य अपि फलभूताम् अधिगच्छति इत्यर्थः। वक्ष्यमाणध्यानयोगावाप्तिं सर्वेन्द्रियकर्मोपरतिरूपाम् अधिगच्छति।