Sbg 18.48 scpur
Sanskrit Commentary By Sri Purushottamji
।।18.48।।यतो विगुणोऽपि भगवद्धर्मः श्रेष्ठः? अतो भगवत्कर्म न त्याज्यमित्याह -- सहजमिति। हे कौन्तेय स्त्रीत्वदोषसाहित्येऽपि भक्तगुणानुगृहीत सहजं स्वाभाविकं भगवत्क्रीडेच्छया सह जातं कर्म सदोषमपि लौकिकमपि पुरुषं स्वस्मिन् प्रवृत्तिं न त्यजेत्। अतः सर्वथा सिद्धिप्रापकं कुर्यादेवेत्यर्थः। कुतो न त्यजेदित्यत आह -- सर्वेति। हि निश्चयेन सर्वारम्भाः धूमेन अग्निरिव दोषेण मत्सम्बन्धाभावरूपेण आवृताः? अतस्तानि स्वदोषेणैव त्यागं कारयन्ति यथा धूमावृतोऽग्निरार्द्रेन्धनं नाग्नितां सम्पादयति? धूमावृतत्वान्न सुखसेव्यो भवति? निर्धूमस्तु तद्विपरीतत्वात्तथात्वं करोति? एवं मत्कर्माऽपि निर्दोषत्वान्न त्यजेदिति भावः।