इन्द्रियनानात्वप्रकरणम्

From IKS BHU
Revision as of 17:03, 6 February 2025 by imported>Gagan (Created page with "स्थानान्यत्वे नानात्वादवयविनानास्थानत्वाच्च संशयः 3/1/44 त्वगव्यतिरेकात् 3/1/45 न युगपदर्थानुपलब्धेः 3/1/46 विप्रतिषेधाच्च न त्वगेका 3/1/47 इन्द्रियार्थपञ्चत्वात् 3/1/48 न तदर्थबहुत्वात् 3/1...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

स्थानान्यत्वे नानात्वादवयविनानास्थानत्वाच्च संशयः 3/1/44

त्वगव्यतिरेकात् 3/1/45

न युगपदर्थानुपलब्धेः 3/1/46

विप्रतिषेधाच्च न त्वगेका 3/1/47

इन्द्रियार्थपञ्चत्वात् 3/1/48

न तदर्थबहुत्वात् 3/1/49

गन्धत्वाद्यव्यतिरेकाद् गन्धादीनामप्रतिषेधः 3/1/50

विषयत्वाव्यतिरेकादेकत्वम् 3/1/51

न; बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः 3/1/52

भूतगुणविशेषोपलब्धेस्तादात्म्यम् 3/1/53