Sbg 18.46 scram
Sanskrit Commentary By Sri Ramanuja ।।18.46।। यतो भूतानाम् उत्पत्त्यादिका प्रवृत्तिः? येन च सर्वम् इदं ततं स्वकर्मणां तं माम् इन्द्राद्यन्तरात्मतयावस्थितम् अभ्यर्च्य मत्प्रसादात् मत्प्राप्तिरूपां सिद्धिं विन्दति मानवः।मत्त एव सर्वम् उत्पद्यते? मया च सर्वम् इदम् ततम् इति पूर्वम् एव उक्तम् -- अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा।।मत्तः परतर नान्यत्किञ्चिदस्ति धनंजय। (गीता 7।67)मया ततमिदं सर्वं जगदव्यक्तमूर्तिना। (गीता 9।4)मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्।। (गीता 9।10)अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। (गीता 10।8) इत्यादिषु।