Sbg 18.44 scdhan
Sanskrit Commentary By Sri Dhanpati ।।18.44।।क्षात्रं कर्म व्युत्पाद्य वैश्यशूद्रयोस्तद्दर्शयति। कृषिर्भूमेर्विलेखनम्। गां रजतीति गोरक्षः तस्य भावो गौरक्ष्यं पाशुपाल्यम्। वाणिज्यं क्रयविक्रयादिलक्षणं वणिक्कर्म कृषिगौरक्ष्यवाणिज्यं वैश्यजातेः कर्मस्वभावजं स्वभावप्रभवेन तमउपसर्जनरजोगुणेन प्रविभक्तम्। परिचर्यात्मकं द्विजातिशूश्रूषास्वभावं कर्म शूद्रस्य शूद्रजातेरपि स्वभावजं स्वभावप्रभवेन रजउपसर्जनतमोगुणेन प्रविभक्तमित्यर्थः।