Sbg 18.44 scvv

From IKS BHU
Revision as of 15:43, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha


।।18.44।।रूढिं व्युत्पत्तिं चानुसृत्य फलतः स्वरूपतश्च कृषिं दर्शयति -- सस्योत्पादनं कर्षणमिति। एवं वाणिज्यव्याख्यानेऽपि ग्राह्यम्। गौः रक्ष्या यत्र? तत्कर्म गोरक्ष्यमित्यभिप्रायेणाऽऽहपशुपालनमिति। रक्ष्यमिति भावार्थं वा? रक्षणमित्यर्थः। गौरक्ष्यमिति वा पाठः। गा रक्षतीति गोरक्षः? तस्य कर्म गौरक्ष्यं पशुपालनं वणिजः कर्म वाणिज्यमितिवत्। एवं विशः कर्म वैश्यंगुणवचनब्राह्मणादिभ्यः कर्मणि च [अष्टा.5।1।124] इति ष्यञ्प्रत्ययः।


शास्त्रान्तरानुसारेण परिचर्यायाः प्रकृतत्रितयानुबन्धित्वमाह -- पूर्ववर्णत्रयेति। ननु षट्कर्मा ब्राह्मणः? त्रिकर्माणौ क्षत्ित्रयवैश्यौ? शूद्रस्यापिभार्यारतिः शुचिर्भृत्यभर्ता श्राद्धक्रियान्वितः (क्रियारतः -- क्रियापरः)। नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् [या.स्मृ.1।5।121] इत्यादयो धर्मा विधीयन्ते तत्कथमिह तत्कर्मणामियत्तानिर्देशः इत्यत्राऽऽह -- तदेतदिति। प्रदर्शनीयानुदाहरतियज्ञादयो हीति। प्रदर्शनार्थत्वे हेत्वन्तरमाह शमदमादयोऽपीति। शमादीनां मोक्षार्थिवर्णत्रयसाधारण्येन कथं ब्राह्मणस्यैव तदुक्तमित्यत्राऽऽहब्राह्मणस्य त्विति।स्वभावप्रभवैः [18।41 इति पूर्वोक्तानुविधानात्सहजत्वविवक्षयात्र स्वभावजशब्द इत्यभिप्रायेणाऽऽह -- सत्त्वोद्रेकस्य स्वाभाविकत्वेन शमदमादयः सुखोपादाना इति। वर्णान्तरगुणसम्भेदं निर्वहति -- क्षत्ित्रयवैश्ययोरिति। न तत्कर्मेत्युक्तमिति तत्कर्मेति नोक्तमित्यन्वयः। उक्तानां वृत्तीनां प्रदर्शनार्थत्वाय चतुर्णां वृत्त्यंशं विविच्य विविनक्तिब्राह्मणस्य तु वृत्तिरित्यादिना। शूद्रधर्मो वृत्तिश्च याज्ञवल्क्येन स्मर्यते -- शूद्रस्य द्विजशुश्रूषा तयाऽजीवन्वणिग्भवेत्। शिल्पैर्वा विविधैर्जीवेद्द्विजातिहितमाचरन् [1।5।120] इति मनुस्तत्र विशेषमाह -- विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते [10।123] इति तदिदमभिप्रेत्याऽऽह -- शूद्रस्य तु कर्तव्यं वृत्तिश्च पूर्ववर्णंत्रयपरिचर्यैवेति।


नन्विदमयुक्तंभार्यारतिः इत्यादेरुक्तत्वात्मां हि पार्थ व्यपाश्रित्य इत्यारभ्यस्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् [9।32] इति च स्वयमेवाऽऽहवसन्ते दीक्षयेद्विप्रम् इत्यारभ्यहेमन्ते शूद्रमेव च। स्त्रियं च वर्षाकाले तु पञ्चरात्रविधानतः इति भगवत्समाराधनार्थं दीक्षा च विहिता तथाब्राह्मणैः क्षत्ित्रयैर्वैश्यैः शूद्रैश्च कृतलक्षणैः। अर्चनीयश्च सेव्यश्च नित्ययुक्तैः स्वकर्मसु।।सात्त्वतं विधिमास्थाय गीतः सङ्कर्षणेन यः [म.भा.66।3940] इति दीक्षितशूद्रादेर्भगवदर्चनादिकं स्पष्टमुक्तम्। तथा युगधर्मान् प्रक्रम्योच्यते -- कृतं नाम युगं पूर्वं यत्र धर्मः सनातनः। कृतमेव न कर्तव्यं यस्मिन् काले नरोत्तम। ब्राह्मणाः क्षत्ित्रया वैश्याः शूद्राश्च कृतलक्षणाः। कृते युगे समभवन् स्वकर्मनिरताः सदा।।एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः। पृथग्धर्मास्त्वेकवेद्या धर्ममेकमनुव्रताः।।चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना। अकामफलसंयोगात् प्राप्नुवन्ति परां गतिम्।।[वि.ध.108।19] इति।


श्रीसात्त्वते च -- अष्टाङ्गयोगयुक्तानां हृद्यागनिरतात्मनाम्। योगिनामधिकारः स्यादेकस्मिन् हृदयेशये।।व्यामिश्रयागयुक्तानां विप्राणां वेदवादिनाम्। समन्त्रे तु चतुर्व्यूहे ह्यधिकारो न चान्यथा।।त्रयाणां क्षत्ित्रयादीनां प्रपन्नानां च तत्त्वतः। अमन्त्रमधिकारस्तु चतुर्व्यूहक्रियाक्रमे।।सक्रिये मन्त्रचक्रे तु वैभवीये विवेकिनाम्। ममतासन्निरस्तानां स्वकर्मनिरतात्मनाम्।।कर्मवाङ्मनसैः सम्यग्भक्तानां परमेश्वरे। चतुर्णामधिकारो वै वृत्ते दीक्षाक्रमे सति [7।8।9।10।11] इत्यधिकारविशेषनियमः कृतः। सप्तमे च व्रतविधानपरिच्छेदेदानार्चने तु शूद्राणां व्रतकर्मणि सर्वदा। असिद्धान्नं तु विहितं सिद्धं वा ब्राह्मणेच्छया।।स्वकर्मणा यथोत्कर्षमभ्येति च तथार्चनात्। तस्मात्स्वेनाधिकारेण कुर्यादाराधनं सदा।।सर्वत्राधिकृतो विप्रो वासुदेवादिपूजने। यथा तथा न क्षत्त्राद्यास्तस्माच्छास्त्रार्थमाचरेत्।।नयेन्नक्ताशनैर्भक्त्या दिनान्येतानि मौद्गल। व्रताद्यन्ते तु विहितं परिपीडं हि तस्य वा।।[7।53।54।55।56] इति व्रतविशेषक्रमो दर्शितः। मौद्गलेति भगवच्छास्त्रे शूद्रनाम। परिपीडमुपवासः। तथा मन्त्रेषु चैवं नियमोऽन्यत्र कृतः।वौषट्स्वाहावषट्कारनिष्ठानां तु प्रतिक्रिया। नमस्कारेण विहिता इति। तथा नारदीये श्रीमदष्टाक्षरकल्पे -- न स्वरः प्रणवोऽङ्गानि नाप्यन्यविधयस्तथा। स्त्रीणां तु शूद्रजातीनां मन्त्रमात्रोक्तिरिष्यते [ना.अ.क.1।120] इति।


एवमेकादशीव्रतादयोऽपि सर्वसाधारणाः पुराणादिषु पठ्यन्ते। तथान्येऽपि वर्ज्यावर्ज्यनियमाः कतिकति धर्मशास्त्रादिषु कथ्यन्ते। यथा -- कपिलाक्षीरपानेन ब्राह्मणीगमनेन च। शूद्रे वेदाक्षरेणैव निष्कृतिर्न विधीयते (वेदाक्षरविचारेण शूद्रस्य नरकं ध्रुवम्)।।[पा.स्मृ.1।74]हृत्कण्ठतालुगाभिस्तु यथासङ्ख्यं द्विजातयः। शुध्येरन् स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततःतेषां स एवाचमनकल्प अधिक अहरहः()। केशश्मश्रुलोमनखवापनम् इत्यादि। तस्मात्जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम्। देवताराधनं चैव स्त्रीशूद्रपतनानि षट् इत्यादिकं विहितव्यतिरिक्तवर्णत्रयशुश्रूषाविरुद्धविषयमिति योज्यम्। अपि च -- न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः [वि.सं.24।10] इत्यादिवचनाज्जयाख्यसंहितादिषु भागवतानां चतुर्णां समत्ववचनाच्च भगवत्परिचर्यावशाद्वर्णत्रयपरिचर्यानिवृत्तिरपि सम्भवेत्। अतः कथंशूद्रस्य तु कर्तव्यं वृत्तिश्च पूर्ववर्णत्रयपरिचर्यैव इति भाषितम्। अत्र ब्रूमः -- यद्यपि विहितव्यतिरिक्तविषयाः सर्वनिषेधाः विशिष्टसंस्कारगुणविशेषादिमतां च शूद्राणामपि धर्मविशेषा विहिताः? तथापि ते सर्वे वर्णत्रयपरिचर्याख्यप्रधानधर्माविरोधेन तन्नियुक्तैः शूद्रैः तत्परिचर्याभावनयैवानुष्ठेयाः। अत एव ह्यत्रोच्यते,परिचर्यात्मकं कर्म इति। अन्यथा परिचर्येत्येव वक्तव्यम् नच निष्प्रयोजनाधिकग्रहणं युक्तम्।


आमनन्ति चरहस्याम्नायविदः -- ज्ञानज्ञापनसम्प्रेषणकर्मा ब्राह्मणः? ज्ञानपरित्राणकर्मा क्षत्ित्रयः? ज्ञानबीजवर्धनकर्मा वैश्यः? ज्ञानपर्युत्थानकर्मा शूद्रः? कृतयुगस्यान्ते त्रेतायुगस्यादौ ब्राह्मणक्षत्ित्रयवैश्यशूद्रा भिद्यन्ते? तेषां भिन्नानां दृष्टिः न तथा भवति? पथ्या रसना न तथा भवन्ति पुष्पफलमोषधिवनस्पतयो न तथा दधते तां दृष्ट्वा ब्राह्मणक्षत्ित्रयवैश्यशूद्राणामसूया प्रादुर्बभूव -- शूद्रः प्रथमजातिर्न वः पर्युत्थास्यामीति? वैश्यो द्वितीयजातिर्न वो बीजानि वर्धयिष्यामीति? क्षत्ित्रयस्तृतीयजातिर्न वः परित्रास्य इति। तान् ब्राह्मण इत्याह। आस्थिता यूयं न वो वक्ष्यामि इति। अत्र पर्युत्थानं परिचर्या। एवं शूद्रः साधुः इत्यादिप्रकरणान्तराणि च द्रष्टव्यानि। एतेनन शूद्रा भगवद्भक्ताः इत्यादिस्तुतिवाक्येन वर्णत्रयपरिचर्यादिनिवृत्तिप्रसङ्गोऽपि प्रत्युक्तः? भगवदेकान्तशूद्रस्यैव पर्युत्थानविधेः। भगवद्भक्तिस्तुतिपरत्वादेव हिसर्ववर्णेषु ते शूद्रा ये ह्यभक्ता जनार्दने [वि.सं.24।10] इति व्यतिरेकनिन्दा। किं तर्ह्यत्र स्तुतिनिन्दालम्बनम् आन्तरः सत्त्वादिगुणोन्मेषः। यदपेक्षया ब्राह्मणादेरेव ब्रह्मण्यादिकं श्रुत्यादिषु कीर्त्यते -- मौनं चामौनं च निर्विद्याथ ब्राह्मणः [बृ.उ.3।5।1] इति।विष्णुं क्रान्तं (विष्णुक्रान्तं) वासुदेवं विजानन्विप्रो विप्रत्वं गच्छते तत्त्वदर्शी [शा.उ.4म.भा.13।16।2]चण्डालमपि वृत्तस्थं तं देवा ब्राह्मणं विदुः इत्यादि।


यत्तु शारीरसत्त्वादिगुणतारतम्यनिबन्धनं जातिरूपं ब्राह्मण्यादिकं? तस्यान्तरसत्त्वोन्मेषादावप्यनुवृत्तेराशरीरपातं जातिनियमः स्थित एव। तदनुबन्धिनश्च धर्मास्तत एवावतिष्ठन्ते। अत एव हि विदितब्रह्मविद्योऽपि विदुरः स्वस्य तद्वचनेऽनधिकारमाह -- शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे [म.भा.5।41।5] इति। शमादिगुणपौष्कल्ययोगिनि तु शूद्रादौ स्त्रीधर्मिण्यां जनन्यामिवावज्ञानादिनिवृत्तिमात्रविशेषापेक्षया जातिसामान्यवीक्षणप्रतिषेध इति। यथा स्मरन्ति -- एतैः समेतः शूद्रोऽपि वार्धके मानमर्हति इति। अत एवभक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्तते। तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् [गा.रु.पू.ख.219।7।8] इत्यादिकमनुपप्लवपर्यन्ततयाऽपि निर्व्यूढम्। साम्योक्तिरपि सर्वोत्कर्षफलादिसाम्यविषया अपशूद्रनयाद्यविरोधश्च। उक्तं चाचार्यैर्भागवतत्वेन शूद्रस्योत्कर्षे ब्राह्मणस्यापि तेनैवोत्कर्ष इति पुनर्वैषम्यमिति सर्वं समञ्जसम्। अतः सुष्ठूक्तं -- शूद्रस्य वृत्तिकर्तव्ययोरैक्यम् इति। ,