Sbg 18.42 scsh

From IKS BHU
Revision as of 15:43, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Shankaracharya ।।18.42।। --, शमः दमश्च यथाव्याख्यातार्थौ? तपः यथोक्तं शारीरादि? शौचं व्याख्यातम्? क्षान्तिः क्षमा? आर्जवम् ऋजुता एव च ज्ञानं विज्ञानम्? आस्तिक्यम् आस्तिकभावः श्रद्दधानता आगमार्थेषु? ब्रह्मकर्म ब्राह्मणजातेः कर्म स्वभावजम् -- यत् उक्तं स्वभावप्रभवैर्गुणैः प्रविभक्तानि इति तदेवोक्तं स्वभावजम् इति।।