Sbg 18.39 scsh
Sanskrit Commentary By Sri Shankaracharya ।।18.39।। --, यत् अग्रे च अनुबन्धे च अवसानोत्तरकाले च सुखं मोहनं मोहकरम् आत्मनः निद्रालस्यप्रमादोत्थं निद्रा च आलस्यं च प्रमादश्च तेभ्यः समुत्तिष्ठतीति निद्रालस्यप्रमादोत्थम्? तत् तामसम् उदाहृतम् ।।अथ इदानीं प्रकरणोपसंहारार्थः श्लोकः आरभ्यते --,