Sbg 18.38 scram
Sanskrit Commentary By Sri Ramanuja ।।18.38।। अग्रे अनुभववेलायां विषयेन्द्रियसंयोगाद् यत् तद् अमृतम् इव भवति? परिणामे विपाके विषयाणां सुखतानिमित्तक्षुधादौ निवृत्ते तस्य च सुखस्य निरयादिनिमित्तत्वाद् विषम् इव पीतं भवति? तत् सुखं राजसं स्मृतम्।