Sbg 18.37 scram
Sanskrit Commentary By Sri Ramanuja ।।18.37।। यत् तत् सुखम् अग्रे योगोपक्रमवेलायां बह्वायाससाध्यत्वाद् विविक्तस्वरूपस्य अननुभूतत्वात् च विषम् इव दुःखम् इव भवति? परिणामे अमृतोपमं परिणामे विपाके अभ्यासबलेन विविक्तात्मस्वरूपाविर्भावे अमृतोपमं भवति? तत् च आत्मबुद्धिप्रसादजम्? आत्मविषया बुद्धिः आत्मबुद्धिः? तस्याः निवृत्तसकलेतरविषयत्वं प्रसादः? निवृत्तसकलेतरविषयबुद्ध्या विविक्तस्वभावात्मानुभवजनितं सुखम् अमृतोपमं भवति तत् सुखं सात्त्विकं प्रोक्तम्।