Sbg 18.33 scram
Sanskrit Commentary By Sri Ramanuja ।।18.33।। यया धृत्या योगेन अव्यभिचारिण्या मनःप्राणेन्द्रियाणां क्रियाः पुरुषो धारयते योगो मोक्षसाधनभूतं भगवदुपासनम् योगेन प्रयोजनभूतेन अव्यभिचारिण्या योगोद्देशेन प्रवृत्ताः तत्साधनभूता मनःप्रभृतीनां क्रियाः यया धृत्या धारयते? सा सात्त्विकी इत्यर्थः।