Sbg 18.29 scang
Sanskrit Commentary By Sri Abhinavgupta ।।18.29।।बुद्धेरिति। बुद्धिः निश्चयः। धृतिः सन्तोषः। सर्वो हि सुकृतं दुष्कृतं वा कृत्वा अन्ते अवश्यं कृतं करणीयं? किमन्येन ( S N किमनेन ) इति धियं गृह्णाति। अन्यथा क्रियाभ्यो व्युपरमे को हेतुः स्यात् अतः सर्वस्यैव धृतिरस्तीति तात्पर्यार्थः। पदार्थस्त्वप्रसिद्धो व्याख्याय ( स्य ) त एव।