Sbg 18.24 scsh
Sanskrit Commentary By Sri Shankaracharya ।।18.24।। --, यत्तु कामेप्सुना कर्मफलप्रेप्सुना इत्यर्थः? कर्म साहंकारेण (वा गी0) इति न तत्त्वज्ञानापेक्षया। किं तर्हि लौकिकश्रोत्रियनिरहंकारापेक्षया। यो हि परमार्थनिरहंकारः आत्मवित्? न तस्य कामेप्सुत्वबहुलायासकर्तृत्वप्राप्तिः अस्ति। सात्त्विकस्यापि कर्मणः अनात्मवित् साहंकारः कर्ता? किमुत राजसतामसयोः। लोके अनात्मविदपि श्रोत्रियो निरहंकारः उच्यते निरहंकारः अयं ब्राह्मणः इति। तस्मात् तदपेक्षयैव साहंकारेण वा इति उक्तम्। पुनः शब्दः पादपूरणार्थः। क्रियते बहुलायासं कर्त्रा महता आयासेन निर्वर्त्यते? तत् कर्म राजसम् उदाहृतम् ।।