Sbg 18.23 scram
Sanskrit Commentary By Sri Ramanuja ।।18.23।। नियतं स्ववर्णाश्रमोचितं सङ्गरहितं कर्तृत्वादि सङ्गरहितम्? अरागद्वेषतः कृतं कीर्तिरागाद् अकीर्तिद्वेषात् च न कृतम्? अदम्भेन कृतम् इत्यर्थः अफलप्रेप्सुना अफलाभिसन्धिना कार्यम् इति एव कृतं यत् कर्म तत् सात्त्विकम् उच्यते।