Sbg 18.22 scram
Sanskrit Commentary By Sri Ramanuja ।।18.22।। यत् तु ज्ञानम् एकस्मिन् कार्ये एकस्मिन् कर्तव्ये कर्मणि प्रेतभूतगणाद्याराधनरूपे अत्यल्पफले कृत्स्न फल वत् सक्तम् अहेतुकं वस्तुतः तु अकृत्स्नफलवत्तया तथाविधसङ्गहेतुरहितम् अतत्त्वार्थवत् पूर्ववद् एव आत्मनि पृथक्त्वादियुक्ततया मिथ्याभूतार्थ विषयम्? अत्यल्पफलं च प्रेतभूताद्याराधनरूपविषयत्वाद् अल्पं च? तद् ज्ञानं तामसम् उदाहृतम्।एवं कर्तव्यकर्मविषयज्ञानस्य अधिकारवेलायाम् अधिकार्यं शेन गुणतः त्रैविध्यम् उक्त्वा अनुष्ठेयस्य कर्मणो गुणतः त्रैविध्यम् आह --