Sbg 18.21 scram
Sanskrit Commentary By Sri Ramanuja ।।18.21।। सर्वेषु भूतेषु ब्राह्मणादिषु ब्राह्मणाद्याकार पृथक्त्वेन आत्माख्यान् अपि भावान् नाना भूतान् सितदीर्घादिपृथक्त्वेन च पृथग्विधान् फलादिसंयोगयोग्यान् कर्माधिकारवेलायां यद् ज्ञानं वेत्ति तत् ज्ञानं राजसं विद्धि।