Sbg 18.21 scsh
Sanskrit Commentary By Sri Shankaracharya ।।18.21।। --, पृथक्त्वेन तु भेदेन प्रतिशरीरम् अन्यत्वेन यत् ज्ञानं नानाभावान् भिन्नान् आत्मनः पृथग्विधान् पृथक्प्रकारान् भिन्नलक्षणान् इत्यर्थः? वेत्ति विजानाति यत् ज्ञानं सर्वेषु भूतेषु? ज्ञानस्य कर्तृत्वासंभवात् येन ज्ञानेन वेत्ति इत्यर्थः? तत् ज्ञानं विद्धि राजसं रजोगुणनिर्वृत्तम्।।