Sbg 18.18 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
।।18.18।।एवं सात्त्विकत्यागो विशोधितः अथ तदर्थंनित्यसत्त्वस्थः [2।45] इत्यादिभिर्बहुधा प्राक्प्रसक्तसत्त्वोपादेयता निरवशेषं विशोध्या तत्र मध्ये कर्मचोदनाप्रकारादिकथनं कथं सङ्गच्छते इत्यत्राऽऽह -- सर्वमिति। कर्मचोदनाप्रकारोक्तिस्तदनुबन्धिषु ज्ञानादिषु गुणतस्त्रैविध्यं प्रपञ्चयितुमित्यर्थः।कर्तव्यकर्मविषयमित्यादि ज्ञानज्ञेयज्ञातृशब्दाः सामान्यविषया अपि कर्मचोदनात्रैविध्यार्थत्वाद्विशेषपरा इति भावः। एतेन ज्ञानशब्दस्यात्र शास्त्रपरत्वव्याख्या निरस्ता। प्रवर्तकवचनरूपचोदनास्वरूपविलक्षणानां ज्ञानादीनां कथं चोदनाभेदत्वोक्तिः इत्यत्राऽऽह -- बोधबोद्धव्यबोद्धृयुक्त इति। ज्ञानादीनां चोदनानुबन्धित्वमात्रेण विधाशब्दोक्तं प्रकारत्वमित्यर्थः। एवंत्रिविधः कर्मसङ्ग्रहः इत्यत्र हेतुद्वयसहितस्वरूपेण त्रैविध्यम्।अनुक्तविषयत्रैविध्यान्तरोक्तिशङ्काव्युदासाय त्रिष्वन्यतमं विविच्यत इत्याह -- तत्रेति। सङ्ग्रहशब्दस्य कर्मणि व्युत्पत्तिमाह -- संगृह्यत इति। कर्मैव सङ्ग्रह इति कर्मधारयः? कर्मणो वा सङ्ग्रहः। व्रीहिभिर्यजेत [आप.श्रो.6।31।24]दध्ना जुहोति [आप.श्रौ.6।25।10] इत्यादिप्रतिपादितं क्रियाकरणमिह करणशब्देनोच्यते। फलापेक्षया तु कर्मण एव करणत्वादित्यभिप्रायेणाऽऽहसाधनभूतं द्रव्यादिकमिति। आदिशब्देन जात्यादिग्रहणम्। नन्वत्र ज्ञायतेऽनेनेति ज्ञानं? तदेव करणमित्युच्यते ज्ञानादित्रयमेव हि करणकर्मकर्तृशब्दैर्विवृतमिति युक्तम् अत एव हिज्ञानं कर्म च कर्ता च इत्यनन्तरानुवादसङ्गतिरिति चेत् -- मैवं? शब्दस्वारस्याभावात्? उक्तमात्रस्य च शब्दान्तरेण पुनरभिधाने प्रयोजनाभावात् उक्तावान्तरविभजनस्य तु विवेकोपयुक्तत्वादिति भावः। कर्तृकरणसमभिव्याहारात्कर्मशब्दोऽपि कारकविशेषविषय इति शङ्कामपाकरोतिकर्म यागादिकमिति। क्रियास्वरूपं हि गुणतस्त्रिविधं विभजिष्यत इति भावः। नियोज्यावस्थतयापरिज्ञाता इति निर्दिष्ट एवानुष्ठात्रवस्थतया पुनः कर्मशेषतया तत्प्रकारत्वेनकर्ता इति व्यपदिश्यत इत्याह -- कर्ता अनुष्ठातेति।