Sbg 18.18 scval
Sanskrit Commentary By Sri Vallabhacharya ।।18.18।।ज्ञानमिति। अत उक्तमिदं सर्वं सत्त्ववृद्ध्यैव भवति सर्वस्येति सत्त्वस्योपादेयताज्ञापनाय सर्वत्र सत्त्वादिगुणकृतं वैचित्र्यं प्रपञ्चयिष्यन् कर्मचोदनाप्रकारं तावदाह -- ज्ञानमिति। ज्ञेयं साधनं कर्तव्यकर्मविषयकं? कर्त्तव्यं कर्म? परिज्ञाता एवंविधकर्मज्ञः? इति त्रिविधः कर्मविधिरुच्यते। तदुक्तं भट्टैः -- चोदना चोपदेशश्च विधिश्चैकार्थवाचिनः इति। एवं वेदे त्रिगुणमयः कर्मविधिरित्यर्थः। अतएवोक्तं -- त्रैगुण्यविषया वेदाः [2।45] इति। तत्र साधितः कर्मसंग्रहोऽपि त्रिविधः करणं कर्म कर्तेति करणं साधनभूतमिन्द्रियादिकं द्रव्यादिकं च? कर्म यागादि? कर्त्ता तदनुष्ठाता।