Sbg 18.17 scjaya
Sanskrit Commentary By Sri Jayatritha ।।18.17।।अवश्यं चैतदेवं यावतोत्तरश्लोके स्वात्मानकारणं जानतः स्तुतिः क्रियते? अन्यथा सहायस्य कारणत्वं जानतः स्तुतिः क्रियते? अन्यथा सहायस्य कारणत्वं जानतः स्तुतिः क्रियेतेति भावेनाऽऽह -- तदि ति। स्वात्मनो निष्क्रियत्वज्ञानम्। ननु निरहङ्कारस्यापि इन्द्रादेर्वृत्रवधादिनेषद्बन्धो दृश्यते तत्कथमेतत् इत्यत आह -- यस्त्वि ति। इयं च कल्पना वक्तुराप्तत्वादिना युज्यते।