Sbg 18.16 scsri
Sanskrit Commentary By Sri Sridhara Swami ।।18.16।।ततः किमत आह -- तत्रेति। तत्र सर्वस्मिन्कर्मणि एते पञ्च हेतव इत्येवं सति केवलं निरुपाधिकमसङ्गमात्मानं तु यः कर्तारं पश्यति शास्त्राचार्योपदेशत्यागेनासंस्कृतबुद्धित्वाद्दुर्मतिरसौ सम्यङ्न पश्यति।