शब्दपरिणामप्रकरणम्

From IKS BHU
Revision as of 15:09, 6 February 2025 by imported>Gagan (Created page with "विकारादेशोपदेशात् संशयः 2/2/40 प्रकृतिविवृद्धौ विकारविवृद्धेः 2/2/41 न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः 2/2/42 द्विविधस्यापि हेतोरभावादसाधनं दृष्टान्तः 2/2/43 नः अतुल्यप्रकृतीनां विक...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

विकारादेशोपदेशात् संशयः 2/2/40

प्रकृतिविवृद्धौ विकारविवृद्धेः 2/2/41

न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः 2/2/42

द्विविधस्यापि हेतोरभावादसाधनं दृष्टान्तः 2/2/43

नः अतुल्यप्रकृतीनां विकारविकल्पात् 2/2/44

द्रव्यविकारवैषम्यवद्वर्णविकारविकल्पः 2/2/45

न; विकारधर्मानुपपत्तेः 2/2/46

विकारप्राप्तानामपुनरापत्तेः 2/2/47

सुवर्णादीनां पुनरापत्तेरहेतुः 2/2/48

न; तद्विकाराणां सुवर्णभावाव्यतिरेकात् 2/2/49

नित्यत्वेऽविकारादनित्यत्वे चानवस्थानात् 2/2/50

नित्यानामतीन्द्रियत्वात् तद्धर्मविकल्पाच्च वर्णविकाराणामप्रतिषेधः 2/2/51

अनवस्थायित्वे च वर्णोपलब्धिवत्तद्विकारोपपत्तिः 2/2/52

विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेश्चाप्रतिषेधः 2/2/53

प्रकृत्यनियमाद् 2/2/54

अनियमे नियमान्नानियमः 2/2/55

नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः 2/2/56

गुणान्तरापत्त्युपमर्दह्रासवृद्धिलेशश्लेषेभ्यस्तु विकारोपपत्तेर्वर्णविकारः 2/2/57