Sbg 18.16 scram
Sanskrit Commentary By Sri Ramanuja ।।18.16।। एवं वस्तुतः परमात्मानुमतिपूर्वके जीवात्मनः कर्तृत्वे सति तत्र कर्मणि केवलम् आत्मानम् एव कर्तारं यः पश्यति? स दुर्मतिः विपरीतमतिः? अकृतबुद्धित्वात् -- अनिष्पन्नयथावस्थितवस्तुबुद्धित्वात् न पश्यति न यथावस्थितं कर्तारं पश्यति।