Sbg 18.15 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।18.15।।स्वरूपमुक्त्वा तेषां पञ्चानां कर्महेतुत्वमाह तृतीयेन। शारीरं वाचिकं मानसिकं च विधिप्रतिषेधलक्षणं त्रिविधं कर्म धर्मशास्त्रेषु प्रसिद्धमक्षपादेन चोक्तंप्रवृत्तिर्वाग्बुद्धिशरीरारम्भः इति बुद्धिर्मनोऽतः प्राधान्याभिप्रायेणोच्यते। शरीरेण वाचा मनसा वा यत्कर्म प्रारभते निर्वर्तयति नरो मनुष्याधिकारत्वाच्छास्त्रस्य कीदृशं कर्म न्याय्यं वा? शास्त्रीयं धर्म विपरीतं वाऽशास्त्रीयमधर्मं यच्च निमिषितचेष्टितादि जीवनहेतुरन्यद्वा विहितप्रतिषिद्धसमं तत्सर्वं पूर्वकृतधर्माधर्मयोरेव कार्यमिति न्याय्यविपरीतयोरेवान्तर्भूतम्। पञ्चैते यथोक्ता अधिष्ठानादयस्तस्य सर्वस्यैव कर्मणो हेतवः कारणानि।