Sbg 18.13 scvv
Sanskrit Commentary By Sri Vedantadeshikacharya Venkatanatha
।।18.13।।अनिष्टमिष्टम् [18।12] इत्यादेरनन्तरं कारणपञ्चकोक्तेः का सङ्गतिः इत्यत्राऽऽह -- इदानीमिति। साक्षात्प्रश्नविषये प्रत्युक्ते सतीत्यर्थः।भगवति पुरुषोत्तम इत्युमाभ्यां प्रागुक्तप्रकारेण सर्वान्तर्यामिणः तद्गतत्वतत्प्रयुक्तदोषाभावख्यापनम्।प्रकारमाहेत्यनेनातृतीयाध्यायादनुक्रान्तस्याकर्तृत्वानुसन्धानस्यात्रैव सहेतुकयथावस्थितस्वरूपशोधनमिति दर्शितम्। त्रिषु त्यागेषु प्रक्रान्तेषु अन्यतमस्य प्रकारशोधनमिति सङ्गतिः। त्रिविधेऽपि त्यागे सात्त्विकतया प्रक्रान्ते किमिति कर्तृत्वत्यागप्रकारमात्रोपपादनं इत्यत्राऽऽह -- तत एवेति। इतिशब्दोऽत्र हेत्वर्थः। ऋत्विगादिषु कर्तृत्वेऽपि यजमानादेः कर्मणि फले च ममता दृश्यते तद्वदस्यापि किं न स्यात् अतः कर्तृत्वत्यागमात्रात्कथं कर्मणि फले च ममताबुद्धिनिवृत्तिः इत्यत्राऽऽह -- परमपुरुषो हीति।हीति प्रमाणप्रसिद्धिसूचनम्।त्वं न्यञ्चद्भिरुदञ्चद्भिः कर्मसूत्रोपपादितैः। हरे विहरसि क्रीडाकन्दुकैरिव जन्तुभिःबालः क्रीडनकैरिव [म.भा.3।12।543।30।37]कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम् [म.भा.2।38।23] इत्यादिप्रसिद्धमाह -- स्वकीयेनेत्यादिना। करणाधिपाधिपो हि परमपुरुषः श्रूयते अतः करणानां जीवशेषत्वदशायामपि गजतुरगाद्यलङ्कारेषु राज्ञ इव परमपुरुषस्य शेषित्वं न निवर्तत इत्यभिप्रायेणाऽऽहस्वकीयैश्च करणकलेवरप्राणैरिति। सङ्कोचकाभावाद्दृष्टादृष्टफलप्रदानादिकमपि तस्य लीलेत्याहस्वलीलाप्रयोजनायेति।लोकवत्तु लीलाकैवल्यम् [ब्र.सू.2।1।33] इत्यादिभिरिदं मीमांसितमिति भावः। लीलादिप्रयोजनायेति पाठे तु आदिशब्देन कारुण्यादिमूलभक्तरक्षणादिग्रहणम्। ननु शास्त्रीयस्य कर्मणः परमपुरुषसमाराधनतयैव विधानात्फलपर्यन्तस्य तस्य तदीयता युक्ता लौकिकं तु कर्म न तथा शिष्टं? नापि तथाध्यक्षं? क्षुन्निवृत्त्यादेः फलस्य जीवगामित्वेनैवोपलम्भात्? अतो लौकिकानां फलानां जीवशेषत्वे तत्साधनस्यापि कर्मणस्तदर्थता युक्ता तस्मात्सिद्धये सर्वकर्मणाम् इत्यादिभिः सर्वविषयसङ्गत्यागाद्युपपादनमशक्यमिति तत्राऽऽह -- अत इति।परमपुरुषस्यैवेति -- षष्ठी स्वस्वामिभावाख्यसम्बन्धविशेषविश्रान्ता। यथा पञ्जरशकुन्तपोषणादिकं तत्सुखादिकं च सार्वभौमस्य शेषभूतं? तथाऽत्रापीति भावः।,साङ्ख्ये कृतान्ते इति न साङ्ख्यसिद्धान्तो विवक्षितः? तत्रेश्वरानभ्युपगमात् करणातिरिक्तस्य कर्तृत्वानभ्युपगमेनकर्ता करणं पृथग्विधम् इति कर्तृकरणविभागोक्त्यसम्भवात्? तस्य वेदविरुद्धत्वे तत्त्वोपदेशाय तदुपन्यासायोगात्? अविरुद्धत्वेऽपि वेदमूलत्वस्यैवाङ्गीकर्तव्यत्वे वेद एव विश्रमात्? अर्थौचित्याय च रूढिपरित्यागेन यौगिकार्थावलम्बनस्य सर्वसम्मतेः अतो वेदेष्वेव यथावस्थिततत्त्वनिर्णयाय प्रवृत्तो भागः साङ्ख्यकृतान्तशब्देन विवक्षित इत्यभिप्रायेण निर्वक्ति -- सङ्ख्या बुद्धिरिति। प्रकरणानुरोधेन बुद्धिं विशिनष्टियथावस्थितेति। यदिहशङ्क्तरेणोक्तंपदार्थाः सङ्ख्यायन्ते यस्मिन् शास्त्रे तत्साङ्ख्यं वेदान्तः? स एव कृतान्तः? कृतस्य कर्मणोऽस्मिन्नन्तः इति तदसत्? वेदान्तेष्वपि कर्मान्वयस्य स्थापितत्वात्? रूढिपरित्यागे चावश्यम्भाविन्युचिततमयोगस्यैव ग्रहीतुं युक्तत्वात्। अन्तशब्दो निश्चयपरतया नैघण्टुकैः पठितः स एव बुद्धिपूर्वसम्पादिततया कृतशब्देन विशेष्यत इत्यभिप्रायेणअनुसंहिते निर्णय इत्युक्तम्। यद्वा निर्णयशब्दोऽत्र निर्णीतवस्तुपरः कृतान्तशब्दस्य सिद्धान्तपर्यायस्य तत्तदभ्युपगतार्थरूढत्वात्। अत एव हि -- अनुसंहित इति विशेषितम्। न हि निर्णय एवानुसन्धातव्यः। अथवा प्राचां निर्णयः परैरनुसंहित इति भावः। निर्णायकशब्दपरो वाऽत्र निर्णयशब्दः। तदानींप्रोक्तानि इत्यनेन समन्वयः। सिद्धिशब्देन फलपर्यन्तत्वादिकमिहाविवक्षितम्यत्कर्म प्रारभते? ৷৷. ৷৷. पञ्चैते तस्य हेतवः [18।15] इति कर्मस्वरूपोपसम्पत्तेरेवानन्तरोक्तेरित्यभिप्रायेणाऽऽह -- उत्पत्तय इति।मम कारणानि इत्यसम्भवान्मदीयानि कारणानीत्युक्तेरिह दैवशब्दनिर्दिष्टस्य स्वस्य स्वकीयत्वाभावेनानन्वयादुचितमन्वयमाह -- मम सकाशादनुसन्धत्स्वेति। वक्ष्यमाणानां पञ्चानां यथादर्शनं विविक्ते हेतुभावे मनस्समाधानविधानार्थमिदमिति भावः। ष़ड्विंशकमनभ्युपगच्छतां पञ्चविंशकं च कर्तृत्वारोपमात्राधिकरणं प्रतिपादयतां प्रकरणमिदं विरुद्धमित्यभिप्रायेण यौगिकार्थपरत्वमुपपादयति -- वैदिकी हीति। शरीरेन्द्रियप्राणजीवात्मोपकरणमिति बहुव्रीहिः। उपकरणं विवक्षितकार्यार्थतयोपात्तः परिकरः।