Sbg 18.13 scram
Sanskrit Commentary By Sri Ramanuja ।।18.13।।संख्या बुद्धिः? सांख्ये कृतान्ते यथावस्थिततत्त्वविषयया वैदिक्या बुद्ध्या अनुसंहिते निर्णये सर्वकर्मणां सिद्धये -- उत्पत्तये प्रोक्तानि पञ्च एतानि कारणानि निबोध मे मम सकाशात् अनुसंधत्स्व।
वैदिकी हि बुद्धिः शरीरेन्द्रियप्राणजीवात्मोपकरणं परमात्मानम् एव कर्तारम् अवधारयति।य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद? यस्यात्मा शरीरम्? य आत्मानमन्तरो यमयति? स त आत्मान्तर्याम्यमृतः (श0 प0 14।5।30)अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा (तै0 आ0 3।11।3) इत्यादिषु।तद् इदम् आह --