Sbg 18.12 scneel
Sanskrit Commentary By Sri Neelkanth ।।18.12।।एवंभूतस्य त्यागस्य फलमाह -- अनिष्टमिति। अनिष्टं नरकतिर्यगादिरूपम्? इष्टं देवतादिरूपम्? मिश्रं मानुषभाव इति कर्मणः कर्मजातीयस्य फलं त्रिविधं प्रेत्य मरणानन्तरमत्यागिनां पूर्वोक्तमुख्यसंन्यासहीनानां भवति मुख्यसंन्यासिनां तु क्वचित्तद्भवति। तेषां कर्तृत्वाभिमानाभावात्। अन्ये तु गौणसंन्यासिनामेवायं कर्मालेप इत्याहुः। तथा च व्याख्यातंकार्यमित्येव यत्कर्म इत्यत्र। अन्यथा संन्यासिनां गौणसंन्यासिनां च विशेषो न स्यात्। न चैवं मुख्यसंन्यासिनां गौणसंन्यासिनां चाविशेषापत्तिरिति वाच्यम्। उभयेषामुत्तरकर्माश्लेषसाम्येऽपि पूर्वकर्मदाहादाहकृतस्य विशेषस्य सत्त्वात्। गौणसंन्यासिनां जन्मान्तरादिकमपि पूर्वकर्मभिरेव भविष्यति आपस्तम्बोक्ताम्रनिदर्शनेन योगभ्रष्टगतिवन्नान्तरीयकं वा न तु तस्य प्रधानं फलं स्वर्गादिभवितुमर्हत्यनुद्दिष्टत्वादिति।