Sbg 18.4 scdhan

From IKS BHU
Revision as of 15:34, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit Commentary By Sri Dhanpati ।।18.4।।एवं मतभेदेन संन्यासत्यागशब्दार्थयोस्तत्त्वं पृथगुक्त्वा स्वाभिमतं तयोरैक्यं दर्शियितुमाह -- निश्चयमिति। तत्र त्यागे त्यागसंन्यासविकल्पे मे मम वचनान्निश्चयं श्रृण्ववधारय। त्यागसंन्यासवाच्यो योर्थः स एकएवेत्यभिप्रेत्याह। त्यागस्त्रिविधः त्रिप्रकारः तामसादिप्रकारैः संप्रकीर्तितः सम्यक्शास्त्रेषु कथितः हि चस्मात्त्यागसंन्यासशब्दवाच्योऽर्थोधिकृतस्य कर्मिणोऽनात्मज्ञस्य तामसादिभेदेन त्रिविधः शास्त्रेषु संप्रकीर्तितः सर्वशास्त्र्ज्ञादीश्वरादन्येन वक्तुमशक्यः। तस्मादत्र दुर्विज्ञानेऽर्थे परमार्थशास्त्रार्थविषयमैश्वरं निश्चयमध्वसायं श्रुणु। भरतानां क्षत्रियवराणां मध्ये सत्तम साधुतमेति संबोधयन् क्षत्रियवरैः कर्तव्ये त्यागे संन्यासे च मयोत्यमानं निश्चयं श्रृण्विति ध्वनयति। न केवलं क्षत्रियवरैरेव कर्तव्ये त्यागसंन्याससश्ब्दार्थे निश्चयो मयोच्यतेऽपितु पुरुषश्रेष्ठैरन्यैपरि कर्माधिकृतैरज्ञैः कर्तव्ये तस्मन्निति ध्वनयन् संबोधयति पुरुषव्याघ्रेति।