Sbg 18.3 scneel
Sanskrit Commentary By Sri Neelkanth ।।18.3।।इदमेव पक्षद्वयमाह -- त्याज्यमिति। एके मुख्याः मनीषिणो मनोनिग्रहसमर्थाः परमात्मनि उत्पन्नविविदिषाणां पुरुषाणां दोषवत् रागादयो यथा त्याज्यास्तद्वत् कर्म त्याज्यमिति प्राहुः। अपरे तु विविदिषार्थिना यज्ञादिकं न त्याज्यमिति वा प्राहुरित्यनुवर्तते। तथा च द्विविधाः श्रुतय उपलभ्यन्तेन कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुःकुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः इत्याद्याः। अविद्वद्विषयमेवैतत्पक्षद्वयम्। विदुषां तु कर्मसु प्रवृत्तिकारणस्याज्ञानस्य नष्टत्वात्स्वतःसिद्ध एव त्याग इति न तान्प्रति कर्मविधिर्वा तत्त्यागविधिर्वा प्रवर्तते। यथोक्तंन कर्माणि त्यजेद्योगी कर्मभिस्त्यज्यते ह्यसौ इति।