Sbg 18.2 scjaya

From IKS BHU
Revision as of 15:34, 4 December 2025 by imported>Vij (Added {content_identifier} content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

 Sanskrit Commentary By Sri Jayatritha ।।18.2।।काम्यानां कर्मणां इत्येतं श्लोकं केचिद्व्याचक्षते -- काम्यानां कर्मणामश्वमेधादीनां स्वरूपेण त्यागः सन्न्यासः? नित्यनैमित्तिकादिसर्वकर्मफलत्यागस्त्यागः इति? तदसदिति भावेनाऽऽह -- फले ति। वैकल्पिककाम्यानां स्वर्गादिफलानिच्छया विशेषणत्यागेन त्यागो नियतकाम्यानां स्वरूपाकरणेन त्यागः सन्न्यासः? काम्यकर्मणामेव फलत्यागस्तु त्यागः करणाकरणे तु न विवक्षित इत्यर्थः। कुत एतत् इत्यत आह -- तथा ही ति। अकर्मणा अकरणेन जनकाश्वपत्यादिभिर्मुमुक्षुभिरश्वमेधादीनामनुद्दिष्टफलानामनुष्ठानान्न काम्यानां स्वरूपपरित्याग एव नित्यनैमित्तिकफलस्यान्तःकरणशुद्धेः सर्वापेक्षितत्वेन तत्त्यागो न युक्तः।