Sbg 18.2 scang
Sanskrit Commentary By Sri Abhinavgupta ।।18.2।।अत्रोत्तरम् --,काम्यानामिति। काम्यानि -- अग्निष्टोमादीनि ( अग्निष्टोमसत्रादीनि )। सर्वकर्मेति -- सर्वेषां नित्यनैमित्तककर्मणां ( S -- नैमित्तिककाम्यकर्मणाम् ) क्रियमाणत्वेऽपि फलत्यागः त्यागः। अत्र चाध्याये यदवशिष्टं ( S??N यदवशिष्टमवलग्नं वक्तव्यम् ) वक्तव्यमस्ति? तत् प्राक्तनैरेव तत्रभवद्भट्टभास्करादिभिः वितत्य विमृष्टमिति किमस्माकं तद्गूढार्थप्रकाशनमात्र ( S -- प्रत्यभिज्ञानिर्वाहण -- ) प्रतिज्ञानिर्वाहणसाराणां पुनरुक्तप्रदर्शनप्रयासेन।