शब्दविशेषपरीक्षाप्रकरणम्

From IKS BHU
Revision as of 14:53, 6 February 2025 by imported>Gagan (Created page with "तदप्रमाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः 2/1/58 न कर्मकर्तृसाधनवैगुण्यात् 2/1/59 अभ्युपेत्य कालभेदे दोषवचनात् 2/1/60 अनुवादोपपत्तेश्च 2/1/61 वाक्यविभागस्य चार्थग्रहणात् 2/1/62 विध्यर्थवादान...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

तदप्रमाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः 2/1/58

न कर्मकर्तृसाधनवैगुण्यात् 2/1/59

अभ्युपेत्य कालभेदे दोषवचनात् 2/1/60

अनुवादोपपत्तेश्च 2/1/61

वाक्यविभागस्य चार्थग्रहणात् 2/1/62

विध्यर्थवादानुवादवचनविनियोगात् 2/1/63

विधिर्विधायकः 2/1/64

स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थवादः 2/1/65

विधिविहितस्यानुवचनमनुवादः 2/1/66

नानुवादपुनरुक्तयोर्विशेषः शब्दाभ्यासोपपत्तेः 2/1/67

शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः 2/1/68

मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् 2/1/69