Sbg 17.26 scdhan
Sanskrit Commentary By Sri Dhanpati ।।17.26।।तृतीयनाम्नो विनियोगमाह द्वाभ्यां -- सदिति। सतः सद्भावे यथाऽविद्यमानस्य पुत्रस्य जन्म तथा साधुभावेऽसदृत्तस्यासाधोः सदृत्तिता साधुमावस्तस्मिन्साधुभावे च सदित्येतत् ब्रह्मणोऽभिधानं प्रयुज्यतेऽभिधीयते। तथा प्रश्ते कर्मणि विवाहादौ च स सच्छब्दः प्रयुज्यते? पृथापुत्रे पार्थशब्दो यथेति सचयन्नाह -- पार्थेति।