शब्दसामान्यपरीक्षाप्रकरणम्
शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयत्वात् 2/1/50
उपलब्धेरद्विप्रवृत्तित्वात् ? 2/1/51
सम्बन्धाच्च ? 2/1/52
आप्तोपदेशसामर्थ्याच्छब्दादर्थसम्प्रत्ययः 2/1/53
पूरणप्रदाहपाटनानुपलब्धेश्च सम्बन्धाभावः 2/1/54
शब्दार्थव्यवस्थानादप्रतिषेधः? 2/1/55
न सामयिकत्वाच्छब्दार्थसम्प्रत्ययस्य 2/1/56
जातिविशेषे चानियमात् 2/1/57