Sbg 17.26 scms
Sanskrit Commentary By Sri Madhusudan Saraswati ।।17.26।।तृतीयं सच्छब्दं व्याचष्टे द्वाभ्यां -- सद्भाव इति।सदेव सोम्येदमग्र आसीत् इत्यादि श्रुतिप्रसिद्धं सदित्येतद्ब्रह्मणो नाम सद्भावेऽविद्यमानत्वशङ्कायां विद्यमानत्वे साधुभावे चासधुत्वशङ्कायां साधुत्वे च प्रयुज्यते शिष्टैः। तस्माद्वैगुण्यपरिहारेण यज्ञादेः साधुत्वं तत्फस्य च विद्यमानत्वं कर्तुं क्षममेतदित्यर्थः। तथा सद्भावसाधुभावयोरिव प्रशस्तेऽप्रतिबन्धेनाशुसुखजनके माङ्गलिके कर्मणि विवाहादौ सच्छब्दो हे पार्थ?,युज्यते प्रयुज्यते तस्मादप्रतिबन्धेनाशु फलजनकत्वं वैगुण्यपरिहारेण यज्ञादेः समर्थमेतन्नामेति,प्रशस्ततरमेतदित्यर्थः।