Sbg 17.26 scval
Sanskrit Commentary By Sri Vallabhacharya ।।17.26।।सदित्यस्यान्वयप्रकारं लोके शब्दव्युत्पत्तिसिद्ध्या दर्शयति -- सद्भाव इति। अस्तीति सत् तस्मिन्भावे। अत्र भावो नाम वस्तु अन्यथा तत्रान्वस्थितिः स्यात् तेनसद्भावः इत्यत्र सत्पदेनाविर्भूतं भावो वस्त्वित्यभिधीयते। साधुभावे साधुत्वे च सदिति प्रयुज्यते। प्रशस्ते कर्मणि च सतो व्यापकस्य ब्रह्मणः,सर्वत्वश्रवणादेव तथा तथा प्रयोगः सर्वत्रोपपद्यते।